पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन।
आभाति बालातपलिप्तसानुः सनिर्झरोद्गार इवाद्रिराजः॥ ५२॥
अनुलेपनं यथा—(मामा. १.४०)
घर्माम्भोविसरविवर्तनैरिदानीं मुग्धाक्ष्याः परिजनचारु/वार—सुन्दरीणाम्।
तत्प्रातिर्विहितविचित्रपत्रलेखावैदग्ध्यं जहति कपोलकुङ्कुमानि॥ ५३॥
विन्यस्तशुक्लागुरु चक्रुरङ्गं गोरोचनापत्रविभक्तमस्याः।
सा चक्रवाकाङ्कितसैकतायाः त्रिस्रोतसः कान्तिमतीत्य तस्थौ॥ ५४॥