भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 171 to 180 of 1849 verses
ततः प्रेम्णः कृशोदरि ! अपराधस्य च न मे क्षमं भवति कृतम्॥)

२१. धीरोद्धतासाधारणमध्यमो यथा—यथा—(रघु. ७.७०)

इति स शिरसि वामं पादमाधाय राज्ञामुदवहदनवद्यां तामवद्यादपेतः।

तुरगखुररजोभिस्तस्य रुक्षालकान्ता समरविजयलक्ष्मीः सैव मूर्ता बभूव॥ ४६॥

२२. धीरोद्धतसाधारणमध्यमो यथा—(वेसं. १.२१)

मन्थायस्तार्णवाम्भःप्लुतकुहरवलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः।

कृष्णाक्रोधाग्रदूतः कुरुशतनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम्॥ ४७॥

२३. धोराद्धतासाधरणानुकूलमध्यमो यथा—(वेसं. २.१७)

किं नो व्याप्‍तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं किं द्रोणेन ? किमङ्गराजविशिखैरेवं यदि क्लाम्यसि।

भीरु ! भ्रातृशतस्य मे भुजवनच्छायां सुखोपस्थिता त्वं दुर्योधनकेसरीन्द्रगृहीणी, शङ्कास्पदं किं तव ?॥ ४८॥

Showing 171 to 180 of 1849 verses