जइ सो वि सिणेहो च्चिअ, ण णाम सब्भावकेअवाण विसेसो॥ ४३॥
(यच्च अलीकोपचारं जनस्य दक्षिणतया गृह्यते हृदयम्।
यदि सोऽपि स्नेह एव न नाम सद्भावकैतवयोर्विशेषः॥)
१९. धीरोद्धतशठमध्यमो यथा—(माघ. ३.१६)
यां यां प्रियः प्रैक्षत कातराक्षीं सा सा ह्रिया नम्रमुखी बभूव।
निश्शङ्कमन्याः सममाहितेर्ष्यास्तत्रान्तरे जघ्नुरमुं कटाक्षैः॥ ४४॥
२०. धीरोद्धतधृष्टमध्यमो यथा—
सुरकुसुमेहिं कलुसिअं जइ तेहिं चिअ पुणो पसाएमि तुमं।
तो पेम्मस्स किसोअरि ! अवराहस्स अ ण मे खमं होइ कअं॥ ४५॥
(सुरकुसुमैः कलुषितां यदि तैरेव पुनः प्रसादयामि त्वाम्।