भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 151 to 160 of 1849 verses
न्यस्ता न भ्रुकुटिर्न वाष्पसिलेलनाच्छदिते लोचने नीतं नाननमन्यतः सशपथं नाहं स्पृशन् वारितः।

तन्व्या मग्‍नपयोधरं भयवशादाविद्धमालिङ्गितं भङ्क्तास्या नियमस्य भीषणमरुन्नायं वयस्यो मम॥ ४०॥

१६. धीरोद्धतसाधारणधृष्टो यथा—

शौरे ! कस्माद् पिधत्से दशनपदमिदं चारुकेश्‍याहितं ते चारुत्वं कीदृगस्य श्रितपशुवपुषा केशिना निर्मितस्य।

१. 'सीताहरणप्रसङ्गः प्रयुज्यते। उपस्थितश्‍च प्रेक्षकेषु रामोऽपि। नासहिष्टासौ दृश्‍यमिदम्। क्रुद्धः स भीमाकृतिर्जातः। विष्णुत्वसंस्कारस्तु तत्र जजागार अस्मरच्‍च शार्ङ्गस्फालनायाः सः। उपस्थिता तु तस्याग्रे सीता। तां वीक्ष्य स्वीये विभ्रमे सव्रीडो रामो मुखं ननामे'—ति घटनाजातं मनसि कृत्वा निष्क्रष्टव्योत्र तात्पर्यार्थः। (नट = नथ। शार्ङ्गा = अङ्गा।) २. सीता राममनुगता। लक्ष्मणोऽपि गृहिणमग्रजमनुयियासाञ्चकार। स्वेऽध्यवसाये सीता लज्जितु— मारब्धा गुरवः पश्‍यन्तीति ध्यात्वा। तामेनां नम्रवक्त्राम्बुजो लक्ष्मणो वारयामास भ्रुकुटिपुटबन्धद्वारा। अयमत्राधारभूतोऽर्थः। द्रष्टव्याऽत्र पद्यसूची। संपूर्णे शृङ्गारप्रकाशे श्‍लोक एष वारत्रयमुद्‍धृतः—८६६ पृष्ठे, ९६५ पृष्ठे, १४०८ पृष्ठे च। ९६५ पृष्ठे राघवग्रन्थे प्रतीकमात्रम्। अत्र पाठभेदाः—'जानकी शोकनिष्ठा रा. (पृ.१५५१), जानकीं चाकरिष्टा(?)जो.(पृ.६०२),रा.(पृ.९९४), जानकी सा कनिष्ठा जो (पृ.६७६)। अहो सेवां सरस्वत्याः। नैवं धृष्ट ! ब्रवीमि व्रजयुवतिमहं बाढमेष व्रजामी— त्येवं गोप्याऽवताद् वः क्षणकपटगिरा प्रीणितः कैटभारिः॥ ४१॥

१७. धीरोद्धतानुकूलमध्यमो यथा—(मामा.५.२६)

मरणसमये त्यक्ताशङ्कं प्रलापनिरर्गल— प्रकटितनिजस्‍नेहः सोऽयं सखा पुर एव ते।

सुतनु ! विसृजोत्कम्पं सम्प्रत्यसाविह पाप्मनः फलमनुभवत्युग्रं पापं प्रतीपविपाकिनः॥ ४२॥

१८. धीरोद्धतदक्षिणमध्यमो यथा—

जं च अलिओवआरं, जणस्स दक्खिण्णआएॅ घेप्पइ हिअअं।

Showing 151 to 160 of 1849 verses