२४. धीरोद्धतसाधारणानुकूलमध्यमो यथा—(वेसं. १.२४)
चत्वारो वयमृत्विजः, स भगवान् कर्मोपदेष्टा हरिः संग्रामाध्वरदीक्षितो नरपतिः, पत्नी गृहीतव्रता।
कौरव्याः पशवः, प्रियापरिभवक्लेशोपशान्तिः फलं राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः॥ ४९॥
२५. धीरोद्धतासाधारणदक्षिणमध्यमो यथा—(रघु. ७.६७)
इतः परानर्भकहार्यशास्त्रान् वैदर्भि ! पश्यानुमता मयाऽसि।
एवम्विधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः॥ ५०॥
२६. धीरोद्धतसाधारणदक्षिणमध्यमो यथा—(वेसं. १.१०)
तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः।
विराटस्यावासे स्थितमनिभृता/नुचिता—रम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ?॥ ५१॥
२७. धीरोद्धतासाधारणशठमध्यमो यथा—(कुसं. ३.७४)