आवर्जिता किञ्चिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम्।
प्रकीर्णपुष्पस्तबकावनम्रा सञ्चारिणी पल्लविनी लतेव॥ ५५॥
सा मङ्गलस्नानविशुद्धगात्री गृहीतपत्युद्गमनीयवस्त्रा।
निर्वृत्तपर्जन्यजलाभिषेका प्रवृत्त/प्रफुल्ल—काशा वसुधेव रेजे॥ ५६॥
आर्द्रक्रमुकमापाण्डु पत्रं नागरखण्डकम्।
द्राविडीवक्त्रमित्येव जैत्रं तत्र मनोभुवः॥ ५७॥
पत्रं नागरखण्डमार्द्रसुभगं पूगीफलं फालयः कर्पूरस्य च यत्र कोऽपि चतुरस्ताम्बूलयोगक्रमः।