देशः केरल एष केलिसदनं देवस्य चेतोभुवः— स्तं दृष्ट््वा कुरु कोमलाङ्गि ! सफले द्राघीयसी लोचने॥ ५८॥
कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य।
अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः॥ ५९॥
तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा।
अवाप बाल्योचितनीलकण्ठपिञ्छावचूडाकलनामिवोरः॥ ६०॥
क्रान्तकान्तवदनप्रतिबिम्वे भग्नबालसहकारसुगन्धौ।
स्वादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः॥ ६१॥