तत्र हंसधवलोत्तरच्छेदं जाह्नवीपुलिनचारुदर्शनम्।
अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः॥ ६५॥
स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय।
सन्नतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च॥ ६६॥
निर्यता परिजनेन बोधितः पूर्यमाण/स्फूर्जमानरुचिरुल्लसद्दशः।
द्रावसंवलनमांसलोऽधिकं दीपकश्च मदनश्च दिद्युते॥ ६७॥
वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः।