कक्षानिवेशनिबिडीकृतनीविरेष वेषश्चिरं जयतु कुन्तल/केरलकामिनीनाम्॥ ५८॥
केशाः सुपुष्पगण्डूषा जघने मणिमेखला।
हारो रक्तांशुकं भद्रं वेषः स्यादान्ध्रयोषिताम्॥ ५९॥
पाञ्चालनेपथ्यविधिर्नराणां स्त्रीणां पुनर्नन्दतु दाक्षिणात्यः।
वन्दामहे वन्द्यतमं पुनस्तमन्योन्यसम्भिन्नमवन्तिदेशे॥ ६०॥
सितांशुका मङ्गलसूत्रभूषणा विविक्तदूर्वाङ्कुरलाञ्छितालका।
व्रतोपवासोज्झितगर्ववृत्तिका मम प्रसन्ना वपुषैव लक्ष्यते॥ ६०a॥