६. नीचेष्वर्थेषु जुगुप्सा ; यथा—(मवीच. १.३७)
उत्तालताटकोत्पातदर्शनेऽप्यप्रकम्पितः ।
नियुक्तस्तत्प्रमाथाय स्त्रैणेन विचिकित्सति॥ ५०॥
स्त्री राक्षसी; कथमिवात्र पतन्तु बाणा ? भक्तस्य ते कुशिकनन्दन! तत् प्रसीद।
आदिश्यतामिह हि कोऽपि तपस्विवर्गे मन्त्राक्षरैः करिपयैर्य इमामपास्येत्॥ ५१॥
७. शक्तिसद्भावेऽनुत्सेकः क्षान्तिः ; यथा—
वोढा तन्नो दशामन्त्यां ज्यायानेव गुणप्रियः।
सुलभो विद्विषां भङ्गो दुर्लभा सत्स्ववाच्यता॥ ५२॥