उपकरणान्यनन्तानि, माल्याङ्गरागानुलेपन—चन्दन—वस्त्रताम्बूलाभरणमदिरा— मन्दिरतल्पदीपधूपादिभेदात्। तत्र
अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युति कर्णिकारम्।
मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती॥ ४९॥
स्रस्तां नितम्बादवलम्बमाना पदे पदे केसरदामकाञ्चीम्।
न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य॥ ५०॥
तां लोध्रकल्केन हृताङ्गतैलामाश्यानकालेयकृताङ्गरागाम्।
वासो वसानाभिषेकयोग्यं नार्यश्चतुष्काभिमुखीमनैषुः॥ ५१॥