भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 141 to 150 of 719 verses
शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मवत् स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति॥ ४२॥

शिशिरोत्पत्तिर्यथा—

भासाऽर्कस्य हतप्रभं विकिरणाद् धूमायमानं मनाङ् निर्वाणैः स्वजनाञ्चनाद् वलयितं स्वैर्भस्मनां राशिभिः।

किञ्चिच्छेषनिशातुषारमधुरस्पर्शं गृहार्धाङ्गणे शय्योत्थायमिह व्रजन्ति हलिनां बालाः कुकूलानलम्॥ ४३॥

यथा वा—

अभिनववधूरोषस्वादुः करीषतनूनपादसरलजनाश्लेषक्रूरस्तुषारसमीरणः।

गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवेर्विरहवनितावक्त्रक्लैब्यं बिभर्ति निशाकरः॥

शिशिरप्रोढिर्यथा—

दैर्घ्यादत्र निशां हिमैकसुहृदां सीमानमासेदुषो— र्मानग्रन्थिरभीष्टयोर्विघटते गाढोऽपि सायन्तनः।

प्रातः किञ्च रतश्रमार्पिततृषः सीत्कारकारं पयः पायं पायमुपानमन्ति ललनाः प्रक्रान्तदन्तग्रहम्॥ ४५॥

Showing 141 to 150 of 719 verses