शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मवत् स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति॥ ४२॥
भासाऽर्कस्य हतप्रभं विकिरणाद् धूमायमानं मनाङ् निर्वाणैः स्वजनाञ्चनाद् वलयितं स्वैर्भस्मनां राशिभिः।
किञ्चिच्छेषनिशातुषारमधुरस्पर्शं गृहार्धाङ्गणे शय्योत्थायमिह व्रजन्ति हलिनां बालाः कुकूलानलम्॥ ४३॥
अभिनववधूरोषस्वादुः करीषतनूनपादसरलजनाश्लेषक्रूरस्तुषारसमीरणः।
गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवेर्विरहवनितावक्त्रक्लैब्यं बिभर्ति निशाकरः॥
दैर्घ्यादत्र निशां हिमैकसुहृदां सीमानमासेदुषो— र्मानग्रन्थिरभीष्टयोर्विघटते गाढोऽपि सायन्तनः।
प्रातः किञ्च रतश्रमार्पिततृषः सीत्कारकारं पयः पायं पायमुपानमन्ति ललनाः प्रक्रान्तदन्तग्रहम्॥ ४५॥