चिरचितदलरक्ता बर्हिकण्ठीपलाण्डुः स्फुरति च रुचिमत्ता पर्वणां पुण्ड्रकस्य॥ ३९॥
शालिच्छेदसमृद्धहालिकगृहा संमृष्टनीलोत्पल— स्निग्धश्यामयवप्ररोहनिवहव्यादीर्घसीमोदराः ।
मोदन्ते परिवृत्तधेन्वनडुहच्छाया पलालैर्नवैः संसिक्तध्वनदिक्षुयन्त्रमुखरा ग्रामा गुडामोदिनः॥ ४०॥
अज्ञ/अङ्ग—स्थौल्यश्वयथुभिषजः सौरभेयप्रजानां वान्ति स्वैरं सरसिजवनव्याधयो गन्धवाहाः।
ये तन्वन्ति प्रशिथिलभुजालिङ्गितप्रेयसीनां सद्यो यूनां सुरतविरतावर्धनारीश्वरत्वम्॥ ४१॥
कम्पन्ते कपयो भृशं कृशजडं गोऽजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्झति।