मदिराक्षि! मांसभक्षणमस्मत्समये निषिद्धमिति॥ ३९॥
आविद्धगतिरारभटी; यथा— (नाशा. २०.६५)
पुस्तावपातप्लुतलङ्घितानि छेद्यानि मायाकृतमिन्द्रजालम्।
चित्राणि युद्धानि च यत्र वृत्तिं तां तादृशीमारभटीं वदन्ति॥ ४०॥
तस्या अपि चत्वार्येवाङ्गानि— संक्षिप्तकः, अवपातः, वस्तूत्थापनं, सम्फेटः इति।
१. मायेन्द्रजालनेपथ्यादिभिः वस्तुसंक्षेपः संक्षिप्तकः; यथा—
रक्षसा मृगरूपेण॰॥ ४१॥ (रघु. १२.५३ द्र.१२.१२०)
२. भयादिभिर्विद्रवादिकर्मसु प्रवेशनिर्गमनमवपातः; यथा—
मृगरूपं परित्यज्य॰॥ ४२॥ (उरा. २.२२; द्र. १२.१२१)