त्वत्पादपङ्कजपरिग्रहपुण्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः।
भ्राम्यन् नृमांसपणनाय परेतभूमावाकर्ण्य भीरु! रुदितानि तवागतोऽस्मि॥ २८॥
१० . शरीरेऽपि नापेक्षा यथा—(मामा. ३.१२)
धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते मार्गे गात्रं क्षिपति वकुलामोदगर्भस्य वायोः।
दावप्रेम्णा सरसबिसिनीपत्रमात्रान्तरीया ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान्॥ २९॥
विरम विरम वह्ने! मुञ्च संरम्भमेनं विरचयसि किमुच्चैरर्चिषां चक्रवालम्।
विरहहुतभुजाऽहं यो न दग्धः प्रियायाः प्रलयदहनभासा तस्य किं त्वं करोषि॥ ३०॥
११. सर्वनाशेऽपि नानुशयो यथा—(गास. ३.२९ )