तथ्ये चाविहितः कोपो यदनुक्तेऽपि तत् तथा॥ २८॥
२. जितेन्द्रियता वशित्वं ; यथा—(किराता. ११.३२)
जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः।
जितेषु तेषु लोकोऽयं ननु कृत्स्नस्त्वया जितः॥ २९॥
३. अनाकाङ्क्षा सन्तोषः ; यथा—
सर्वाः सम्पत्तयस्तस्य विविक्तं यस्य मानसम्।
उपानद्गूढपादस्य ननु चर्मास्तृतैव भूः॥ ३०॥
१. सर्व = '......गा विधीय। सर्वकर्मसु' — रा.। २. तत् रा. जो.।
४. विषयव्यावृत्तिः प्रशमः ; यथा—
यदाऽऽसीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारीमयमिदमशेषं जगदपि।