ग/गेण्हइ कंठम्मि, बला चुंबइ णअणाइ, हरइ मे सिअअं।
पढमसुरअम्मि रअणी वरस्स एमेअ बोलेइ॥ ३०॥
(गुह्णाति कण्ठे, बलाच्चुम्बति नयने, हरति मे सिचयम्।
प्रथमसुरते रजनी वरस्य एवमेव व्यवलीयते॥)
२४. आग्रहो यथा—(गास. ३.४९)
अज्ज मए गंतव्वं घणंधआरे वि तस्स सुहअस्स।
अज्जा णिमीलिअच्छी पअपरिवाडिं घरे कुणइ॥ ३१॥
(अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य।
आर्या निमीलिताक्षी पदपरिपाटीं गृहे कुरुते॥)