गृहपरिपाट्या प्रहेणकानि तव दर्शनाशया॥)
जनः पुण्यैर्यायाज्जलधिजलभावं जलमुच— स्तथावस्थं चैनं निदधतु शुभैः शुक्तिवदने।
ततस्तां श्रेयोभिः परिणतिमसौ विन्दति यया रुचिं तन्वन् पीनस्तनि! हृदि तवायं विलुठति॥ २५॥
होज्ज वणे, सो दिअहो! जत्थ वि आमलिअकुसुमधम्मिल्ला।
पत्ते रआवसाणे पुच्छिज्ज पवासदुक्खाइं॥ २६॥
(भवतु वने, स दिवसो यत्राऽप्यामृदितकुसुमधम्मिल्ला।
प्राप्ते रतावसाने पृच्छेयं प्रवासदुःखानि॥)
२०. मनोरथो यथा—(कुसं. ५.६४)