भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 121 to 130 of 468 verses
उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्॥ २२॥

१२. सदाचारेष्वादरो यथा—(नीतिश. ५१)

माधुर्यं प्रमदाजनेषु ललितं, दाक्षिण्यमार्ये जने विद्यायां व्यसनं, स्वयोषिति रतिर्लोकापवादाद् भयम्।

भक्तिः शूलिनि, शक्तिरात्मदमने, संसक्तिमुक्तिः खले येष्वेते निवसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो२ नमः॥ २३॥

१. इयमस्मत्कृताऽऽपूर्त्तिः। २. नरेभ्यो रा., महद्‍भ्यो जो.।

१३. सर्वकर्मसु१ फलानीप्‍सा ; यथा—

श्लाघ्यं यद् वै२ कृपणमनसां सप्‍तलोकाधिपत्यं या मृग्यन्ते तरलमतिभिः सिद्धयश्चाणिमाद्याः।

एतत् सर्वं मदनदहन! त्वत्पदप्राप्‍तिभाजां तत्त्वज्ञानामृतरसजुषां योगिनामन्तरायः॥ २४॥

१४. रागादिभिर्न धर्मबाधा; यथा—

न कामान्न च संरम्भान्नापि लोकाद् विभीषणात्।

Showing 121 to 130 of 468 verses