तथाऽपि निघ्नं नृप! तावकीनैः प्रह्वीकृतं मे हृदयं गुणोघैः।
वीतस्पृहाणामपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः॥ १९॥
९. सर्वभूतेष्वनुकम्पा यथा—
यत् कृत्वा भगवंस्तव स्तवमिमं भक्तया त्रिलोकीगुरोः पुण्यं किञ्चिदवाप्तवानहमिह क्लेशौघविध्वंसिनः।
तस्मात् (स्प्रष्टुमिमान् सहे न विषयान्)१ भोगात्मनो हारिणो निर्बाधस्थिति निर्वृतेः पदमथ प्राप्तं जगच्चेष्टताम् ?॥ २०॥
१०. साधुजनेषु मैत्री यथा—
यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि।
अथासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि॥ २१॥
११. अधार्मिकेषूपेक्षा यथा—(रामायणे २.२१.१४)
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।