आहार्ययोगेन विमुच्यमानः परेण को नाम भवेत् सशोकः॥ १६॥
६. प्रशंसासु नोत्कर्षो यथा—
अब्रुवन् कस्यचिन्निन्दामहृष्यन्नात्मनः स्तवे।
आत्मना गुणसम्पन्नः पुमान् नैर्गुण्यमर्हति॥ १७॥
७. निन्दास्वपि न कोपो यथा—
जाण असमेवि विहिआ जाअइ णिंदासमा सलाहा वि।
णिंदा वि तेहिं विहिआ ण तॉण मंणे किलामेइ॥ १८॥
(येषामसमेऽपि विहिता जायते निन्दासमाश्लाघाऽपि।
निन्दापि तैर्विहिता न तेषां मन्ये क्लाम्यति॥)
८. भव्यप्राणिषु प्रमोदो यथा—(किराता. ३.१२)