केकाभिर्नीलकण्ठस्तिरयति वचनात् ताण्डवादुच्छिखण्डः कान्तामन्तःप्रमोदादनुसरति मदभ्रान्ततारश्चकोरः।
गोलाङ्गूलः क(पो)लं छुरयति रजसा कौसुमेन प्रियायाः कं याचे यत्र तत्र ध्रुवमनवसरग्रस्त एवार्थिभागः॥ १६॥
४. विलासेषु व्यसनं यथा—(रघु. १९.४४)
ताः स्वमङ्कमधिरोप्य दोलया प्रेङ्खयन् परिजनप्रवृद्ध/बद्धया।
मुक्तरज्जु निबिडं भयच्छलात् कण्ठबन्धनमवाप बाहुभिः॥ १७॥
रावण/वारणध्वनितभीतया तया कण्ठसक्तमृदुबाहुबन्धनम्।
एकपिङ्गलगिरौ जगद्गुरुः निर्विवेश विशदाः शशिप्रभाः॥ १८॥
५. व्यसनेष्वभिनिवेशो यथा—(रघु. १९.१२)