सर्वा नायिका इत्यनेन एतदधिकारिणो धीरललितनायकस्य कामसेवायामिति अभियोगं नियमयति।
धीरललितश्च नायकस्तत्कृत्यस्यैव धर्मार्थानपेक्षया कामशृङ्गारे कामसूत्रप्रतिपादितोपायपूर्विकायां प्रवृत्तौ तस्यैव तदनुभावाभिमानात्। स गुणप्रकृतिप्रवृत्तिपरिग्रहप्रस्तारभेदाच्चतुश्चत्वारिंशत्प्रकारः।
तत्र गुणतः समस्तजात्यादिगुणसंपद्योगात् पादेनगुणसंपद्योगाच्च उत्तमो मध्यमश्च। प्रकृते रजउद्रेकाद् राजसः। प्रवृत्तेरनुकूलो दक्षिणः शठो धृष्टश्च। परिग्रहादसाधारणः साधारणश्च। तदेतद् वृत्तिः प्रवृत्तिरित्यादिकमेतल्लक्षणोदाहरणैः पूर्वमेव निर्णीतम्।
अथेदानीं नायकव्यपदेशहेतुर्धैर्यं विचार्यते। तद्धीन्द्रियविकारकारणं चित्तधर्मः। तद्धीरललितस्य ललितं भवति। यत्प्रभावादभ्युदयादिभिः प्रमोदः, शोकादिभिः वैक्लव्यं, व्यसनादिभिर्दीनत्वं, विलासेषु व्यसनम्, व्यसनेष्वभिनिवेशः, विषयेष्वत्यासङ्गः, धर्मार्थयोर्नात्यादरः, अनर्थजनैः संसर्गः, हासेषु/साहसेषु प्रवृत्तिः, शरीरेऽपि नापेक्षा, सर्वनाशेऽपि नानुशयः, सुलभेष्ववमानः, दुर्लभेष्वाकाङ्क्षा, स्ववर्णनासूत्कर्षः, चादूक्तिषु प्रागल्भ्यं, जात्यादिभिश्चाभिमान इति। तत्र—
१. अभ्युदयादिभिः प्रमोदो यथा—(रघु . १९.५)
कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु।
ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः॥ ११॥
जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।