तदङ्गानि नर्म, नर्मस्फुञ्जः, नर्मस्फोटः, नर्मगर्भ इति (नाशा. २०.४५)। सा तु शृङ्गारप्रायेत्यनेन उत्तमयुवप्रकृतितां प्रतिपादयति।
श्लक्ष्णनैपथ्यविशेषचित्रेत्यनेन सम्भोगयोग्यान् आभिगामिकवैहारिकादिविशेषान् उपदिशति।
स्त्रीपुंसयुक्तेत्यनेनायतनसंप्रयोगस्य प्राधान्यं निगमयति। . . .
बहुगीतनृत्तेत्यनेन गोष्ठीसमवायसभा—पान—प्रदोषसङ्गीतकादीन् निर्दिशति।
कामोपचारप्रभवोपयोग्येत्यनेन समस्तसांप्रयोगिकाधिकरणोक्तचातुष्षष्टिक— प्रयोगान् अनुबध्नाति॥ अङ्गेषु
नर्मणा रहःपरिहासविस्रन्भादिभिः शृङ्गारावस्थामवस्थापयति।
नर्मस्फञ्जेन प्रथमानुरागे दूतीसंप्रेषणाभिसरणप्रेमातिरेकानुभावव्यभिचारि— सात्त्विकानां पुष्टिमभिधत्ते। नर्मगर्भेण दक्षिणेशधृष्टचेष्टितं व्याचष्टे। तल्लक्षणानां तथाविधार्थविशेषयोगात्। तथा हि—
आस्थापितशृङ्गारं वचो विचेष्टितं वा सपरिहासं नर्म। (नाशा. २०.४६–४८)
प्रथमसङ्गमे भयावसानं सम्भोगवेषवाक्यादिकर्म नर्मस्फञ्जः।(नाशा.२०.४९)
आविर्भूताभिलाषो नर्मस्फोटः।