भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 61 to 70 of 468 verses
यथा— (मनुस्मृ. १.९६, ९७)

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः।

बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः॥ ८॥

ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः।

कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः॥ ९॥ इति।

'त्यागेन वृत्तेन समन्विता च' इत्यनेन सात्त्वतेन त्यागेन सात्त्वतेन वृत्तेन च समन्वितेति व्याख्याम् अस्यैव द्रव्योत्सर्गसत्कारपूर्वकत्वफलनिरपेक्षमवृथादानं च सूचयति। सत्कारपूर्वकदानं हि त्यागः, स ॰ ॰ ॰ ॰ मि च(?) वृत्तमिति। चकारात् तु लौकिकाचारपरित्यागमपि कथयति।

'हर्षोत्कटा संहृतशोकभावा' इत्यनेन ब्रह्मानन्दोपलम्भादशेषदुःख— क्षयमुपलक्षयति।

'सा सात्त्वती सत्त्ववतीह वृत्तिः' इत्यनेनान्वर्थसंज्ञायोगं विशुद्धसत्त्वानायकाश्रयं च द्योतयति।

अङ्गेषु — उत्थापकेन तत्त्वजिज्ञासुभिः सन्धाय सम्भाषया विवादं बोधयति। परस्परस्पर्धया अर्थेषूत्थापनं हि उत्थापकः।

परिवर्तकेन कुपथपरित्यागात् सन्मार्गग्रहणमभिधत्ते। प्रस्तुतार्थपरित्यागादन्यार्थ- भजनं हि परिवर्तकः।

Showing 61 to 70 of 468 verses