संलापकेन विगृह्य परिभाषया जल्पकथायां परपक्षदूषणमुपदिशति। सदसि नाना वाक्यैर्मिथोऽधिक्षेपो हि संलापकः।
सङ्घात्यकेन साधकबाधकप्रमाणोपपत्तिभिः स्वपक्षस्थापनया परपक्षं प्रतिक्षिपति। कार्यमन्त्रार्थप्रभावदैवादिभिर्हि सङ्घातभेदः सङ्घात्यकः।
सेयं चतुरङ्गाऽपि सात्त्वती वृत्तिः लाटीयानुप्रासयोगियोगरूढिगर्भा तत्त्वज्ञाना(न्निश्रेयस)हेतुर्मोक्षशृङ्गारस्य अङ्गम्।
आवन्त्या प्रवृत्ति., शुचिव्रतस्तु शुद्धोज्ज्वलानुल्बणशान्तवेषरूपत्वान् मुमुक्षुभिरप्यादृतेति मोक्षशृङ्गाराधिकारिणो धीरप्रशान्तः(स्य प्रशमः)१ शृङ्गारस्याङ्गम्। यथा— (कुसं. ६.६)
मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः।
रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः॥ १०॥
लाटीया रीतिः, मोक्षशास्त्रानुरुपसंदर्भत्वात्। तथाहि— यदीषत्समस्तमनति— सुकुमारबद्धं नात्युपचारवृत्तिमल्लाटीयानुप्रासयोगि योगरूढिगर्भं वचः सा लाटीया। सा तु प्रायो मोक्षशास्त्रेषु दुश्यत इति मोक्षशृङ्गाराङ्गम्।
स्वकीया नायिका; मोक्षशृङ्गाराधिकारिणो धीरप्रशान्तनायकस्य लोकयात्रार्थं क्रियाप्रवृत्तिहेतुत्वात्। मुमुक्षूणामपि हि लोकयात्रानुयायिनां धर्मपत्न्यः श्रुत्यादिषु श्रूयन्ते, 'याज्ञवल्क्यस्य हि द्वे पत्न्यौ बभूवतुः' इति (बृहदारण्यके)।
तस्मिन् संयमिनां मान्ये जाते परिणयोन्मुखे।
जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः॥ ११॥