२५. विमर्शो यथा—(शाकु. ५.१३)
कास्विदवकुण्ठनवती नातिपरिस्फुटशरीरलावण्या।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्॥ ३२॥
२६. मनीषा यथा—(शाकु. १.१९)
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः॥ ३३॥
बालअ रे! वंचिज्जसि लोलिर-महु-आण-सद्धपसराओ।
पुफ्फवई—मुहचुंबण—सहास—कंठग्गह—सुहाओ ॥ ३४॥
(बालक! रे वञ्च्यसे लोलितमधुपानश्रद्धाप्रसरात्।