गृहिणी हृदयसुखानि पत्युः कर्णे भणतः॥)
३०. आसङ्गो यथा—(मामा. १.२६)
सन्तापसन्ततिमहाव्यसनाय तस्या— माधत्त मे तदनपेक्षितहेतु चेतः।
प्रायः शुभं च विदधात्यशुभं च जन्तोः सर्वंकषा भगवती भवितव्यतैव॥ ३७॥
३१. अभिष्वङ्गो यथा—(गास. २७६ वे.)
दढमूढबद्धगंठि व्व मोइआ कह वि तेण मे बाहू।
अम्हेहि वि तस्स उरे खुत्त व्व समुख्खआ थणआ॥ ३८॥
(दृढमूढबद्धग्रन्थी इव मोचितौ कथमपि तेन मे बाहू।
अस्माभिरपि तस्योरसि खात इव समुत्खातौ स्तनौ॥)
३२. सक्तिर्यथा—(गास. ८७८ वे.)