ताव छिवइ, ता णिअच्छइ, ता कुणइ रअं पि ताव चुंबेई।
अंगेहि कीरइ पई कामोत्तत्तसीअलो तिस्सा(यावत्)॥ ४१॥
(तावत् स्पृशति तावन्नियच्छति, तावत् करोति, रतमपि, तावच्चुम्बति।
अङ्गैः क्रियते पतिः कामोत्तप्तशीतलस्तस्याः(लो यावत्)॥)
३५. कुतूहलं यथा—(गास. १.२१)
असमत्तमंडण च्चिअ वच्च घरं से सकोउहल्लस्स।
बोलाविअ—हलहलअस्स पुत्ति! चित्ते ण लग्गिहिसि॥ ४२॥
{असमाप्तमण्डनैव व्रज गृहं तस्य सकौतूहलस्य।
व्यवलीनौत्सुक्यस्य पुत्रि! चित्ते न लगिषयसि॥}
३६. विस्मयो यथा—(सूमु. १६)