कमलमनम्भसि कमले च कुवलयमेतानि कनकलतिकायाम्।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्?॥ ४३॥
घरिणिघणत्थणपेल्लणसुहेल्लिपडिअस्स होंतपहिअस्स।
अवसउणं—गारअ—वारविठ्ठि—दिअहा सुहावेंति॥ ४४॥
{गृहिणीघनस्तनप्रेरणसुखकेलिपतितस्य भविष्यत्पथिकस्य।
अपशकुनाङ्गारकवारविष्टिदिवसाः सुखयन्ति॥)}
जाणामि जणो णिउणो गुरुअणमज्झम्मि संठिआ अ अहं।
ता किं करेमि पिअसहि! धरिआवि बला वलइ दिट्ठी॥ ४५॥