भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 191 to 200 of 515 verses
दीहा वि समप्पइ सिसिरजामिणी, कह णु दे माणो?॥ ३३॥

(तरलाक्षि! चन्द्रवदने! पीनस्तनि! करिकरोरु! तनुमध्ये!।

दीर्घाऽपि समाप्यते शिशिरयामीनि, कथं नु ते मानः?॥)

२.१२. (छ) आदिग्रहणात् प्रकीर्णविषयो यथा—

विलिम्पत्येतस्मिन् मलयजरसार्द्रेण महसा दिशां चक्रं चन्द्रे सुकृतमथ तस्या मृगदृशः।

दृशोर्बाष्पः पाणौ वदनमसवः कण्ठकुहरे हृदि त्वं ह्नीः पृष्ठे वचसि च गुणा एव भवतः॥ ३४॥

प्रथमानुरागादीनामनन्तराणां च विस्तरतः प्रपञ्चमग्रतः१ क्रमेण वर्णयिष्यामः। इह तु दिङ‌‌्मात्रमुपलक्षणार्थमुदाह्नियते। तत्र—

१. प्रथमानुरागो यथा—(गास. १. ९३)

अविअण्हपेच्छणिज्जेण तक्खणं मामि! तेण दिट्ठेण।

सिविणअ—पीएण व पाणिएण तण्हा चिअ ण फिट्टा॥ ३५॥

Showing 191 to 200 of 515 verses