नायकाभ्यर्हणीयः सम उत्कृष्टो वाऽनवाप्तपद उपनायकः; तेषु—
धीरोदात्तो यथा—(मवीच. ५.५१)
ख्याता एव वयं जगत्सु चरितैर्वाग्भिः, किमाख्यायते संयत्तो भव, सत्त्वमस्ति भवतः, सत्यं मनुष्यो भवान्।
शस्त्रैरव्यवधीयमानविजयाः प्रायो वयं तेषु चेद् ग्राहस्ते सुखमाश्वसन्ति गिरयो यैर्वानराः शस्त्रिणः॥ ४३॥
धीरोद्धतो यथा—(माघ. १४.१६)
यस्तवेह सवने न भूपतिः कर्म कर्मकरवत् करिष्यति।
तस्य नेष्यति वपुः कबन्धतां बन्धुरेष जगतां सुदर्शनः॥ ४४॥
ततः सपत्नापनयस्मरणानुशयस्फुरा।