८. भोगेष्वनीप्सा वैराग्यम्; यथा—(वैराग्यशतके ९३)
मातर्लक्ष्मि! भजस्व कञ्चिदपरं मत्काङ्क्षिणी मा स्म भू— र्भोगेभ्यः स्पृहयालवस्तव वशे, का निःस्पृहाणामसि ?।
सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतै— र्भिक्षासक्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे॥ ३५॥
सोऽयमस्य स्वाभाविको निरतिशय आन्तरो नित्यश्चालङ्कारः, यत्प्रभावात् तदनुरूपा एव रत्यादयो जायन्ते। ते चास्य धीरोदात्तवत् सर्व एवावगन्तव्याः।
तदेतन्मोक्षशृङ्गारस्वरूपमुपवर्णितम्।
निःश्रेयसपरत्वेन तत्त्वज्ञानाभिमानिनाम्॥ ३६॥
इह प्रवृत्तिरावन्त्या, सात्त्वती वृत्तिरिष्यते।
लाटीया रीतिरात्मीया कान्ता, शान्तश्च नायकः॥ ३७॥
वृत्ते धीरप्रशान्तस्य मोक्षशृङ्गारगोचरे।
चरेयुः केऽपि तत्त्वज्ञाः सर्वज्ञस्याभ्यनुज्ञया॥ ३८॥