भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 231 to 240 of 543 verses
प्रिये हा हा क्‍वासि प्रकिर मधुरां वाचमथवा पराभूतैरित्थं विलपनविनोदोऽप्यसुलभः।

अनिन्द्यः पौलस्त्यो व्रजतु परिवादो मयि जरां यतो रूढे वैरे बहुगुणमनेन प्रतिकृतम्॥ ६३॥

१३. अस्थानेषु न क्रोधो यथा—(उराच. ४.२४–२५)

एतद् वैशसघोरवज्रपतनं शश्वन्ममाऽभ्यस्यतः/ममोत्पश्‍यतः क्रोधस्य ज्वलितुं धगित्यवसरश्‍चापेन शापेन वा।

शान्तं वा रघुनन्दने तदुभयं तत्पुत्रभाण्डं हि मे भूयिष्ठं द्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः॥ ६४॥

यथा वा—(मवीच. ३.४२)

कामं हि नः स्वजन एष तथाऽपि दर्पा— च्‍चापं व्यवस्यति कथं न भवेदवख्या।

सन्दूषितेन च मया मुहुरीक्षितस्य क्रुद्‍धश्च/मुग्धश्च भार्गवशिशुर्दुरितं हि तत् स्यात्॥ ६५॥

१४. आरम्भेषु नानिर्वाहः ; यथा—(सेब. ३.२५)

णिज्जंति चिरपअत्ता समुद्दगहिरा वि पडिवहं णइसोत्ता।

Showing 231 to 240 of 543 verses