ताम्बूलीनद्धमुग्धक्रमुकतरुतलप्रस्तरे सानुगाभिः पायंपायं कलाचीकृतकदलदलं नारिकेलीफलाम्भः।
सेंव्यन्तां व्योमयात्राश्रमजलजयिनः सैन्यसीमन्तिनीभि— र्दात्यूहव्यूहकेलीकलितकुहकुहारावकान्ता वनान्ताः॥ ७८॥
कान्ताररमणीयता यथा—(नच. ५.३९)
माद्यद्दन्तिकपोलयुग्मविगलद्दानाम्बुसिक्तद्रुमाः क्रीडत्क्रोडकुलार्धचर्वित—पतन्मुस्ता—रसामोदिनः ।
अन्तस्सुस्थितपान्थमन्थरमरुल्लोलल्लतामण्डपाः कस्यैता न हरन्ति हन्त हृदयं विन्ध्यस्थलीभूमयः॥ ७९॥
इमास्ता विन्ध्याद्रेः शुकहरितवंशीवनघनाः भुवः क्रीडालोलद्विरदवदनारुग्णतरवः।
लताकुञ्जे यासामुपनदि रतक्लान्तशबरी— कपोलस्वेदाम्भःपरिचयनुदो वान्ति मरुतः॥ ८०॥
पर्वतरमणीयता यथा—(मामा. ९.५)