सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे॥ ६३॥
साअरदंसणहित्था अक्खित्तोवसरिअवेवमाणसरीरा।
सहसा लिहिअ व्व ठिआ णिप्पंदणिराअलोअणा कइणिवहा॥ ६४॥
(सागरदर्शनत्रस्ताः आक्षिप्तापसृतवेपमानशरीराः।
सहसा लिखिता इव स्थिताः निस्स्पन्दनिरायतलोचनाः कपिनिवहाः॥)
प्रकर्षो यथा—(उराच. ५.१३)
व्यतिकर इव भीमस्तामसो वैद्युतश्च प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति।
अथ लिखितमिवैतत् सैन्यमस्पन्दमास्ते नियतमजितवीर्ये जृम्भते जृम्भकास्त्रम्॥ ६५॥