कस्य नो कुरुते मुग्धे पिपासाकुलितं मनः॥ ५२॥
अनुबन्धिनी यथा—(शाकु. ३.२१)
अपरिक्षतकोमलस्य यावत् कुसुमस्येव नवस्य षट्पदेन।
अधरस्य पिपासता मया ते सदयं सुन्दरि ! गृह्यते रसोऽस्य॥ ५३॥
प्रवृद्धा यथा—(शाकु. ३.२२)
मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लबाभिरामम्।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु॥ ५४॥
शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत् तपः।
तरुणि ! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः॥ ५५॥