निरानन्दः कौन्दे मधुनि विधुरो बालवकुले न साले सालम्बो लवमपि लवङ्गे न रमते।
प्रियङ्गौ नासङ्गं रचयति न चूते विचरति स्मरंल्लक्ष्मीलीलाकमलमधुपानं मधुकरः॥ ५६॥
गन्धे जाता यथा—(मामा. ७.५)
प्रासादानामुपरि वलभीजालवातायनेभ्यो भ्रान्तावृत्तिः परिणतसुरागन्धसम्पर्कहृद्यः।
माल्यामोदी मुहुरुपचितस्स्फारकर्पूरवासो वायुर्यूनामभिमतवधूसन्निधानं व्यनक्ति॥ ५७॥
अनुबन्धिनीं यथा—(रघु. ३.३)
तदाननं मृत्सुरभि क्षितीश्वरो रहः समाघ्राय न तृप्तिमाययौ।
करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम्॥ ५८॥
प्रवृद्धा यथा—(माघ. ६.१२)