यो भावनापथमतीत्य विवर्त्तमानः साहंकृते हृदि परं स्वदते रसोऽसौ॥
यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत् प्रियं यत् करोति सा॥ ४३॥
अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद् विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः।
कालेनावरणात्ययात् परिणते यत् स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हितं प्राप्यते॥ ४४॥
'युक्तोत्कर्षं च तत्त्रयमि'त्यनेनायुक्तोत्कर्षाणां त्रयाणामप्यूर्जस्विरसवत्प्रेयसां गुणत्वमेव, नालङ्कारत्वमिति ज्ञापयति। तथा ह्यौर्जित्यं भाविकत्वं प्रेय' इति पदैस्त्रयोऽप्येते गुणेषूपदिष्टाः।
कुतः पुनरेतत्, यदेकदोर्जस्विरसवत्प्रेयसामलङ्कारत्वम्, अन्यदा गुणत्वम् ?