ननु चोक्तं मत्वर्थाभावात् तदनुपपत्तिः ? रसवतो रामादेर्यद् वचनं तद् रसमूलत्वाद् रसवत्, अभेदसमध्यारोपाच्च कविना अनुक्रियमाणस्य तस्यानुकरणमपि रसवत्।
ननु चोक्तं वत्यर्थानुपपत्तेर्न वतिः।
अत्रापि नानुपपत्तिः। 'तदर्हम्' (५.१.११७) इति वचनाद् वतिर्भविष्यति। रसान् प्रतिपादयितुं यदर्हति तद् रसवत्। अर्हति च रसवद् रामादिवचनमनुक्रियमाणमभेद— समध्यारोपाद् रसान् प्रतिपादयितुमिति रसवद् भवति।
ननु च सर्वेषामप्युपादेयानां काव्यशोभाकरत्वादलङ्कारत्वे व्यवच्छेद्याभावात् सङ्करः संसृष्टिरित्येतावदेव वाच्यं भवति।
नैवम्; एवं सति विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिरिति विभावादिसङ्करस्यापि संसृष्टित्वं प्राप्नोति। तदलङ्कारग्रहणेन निवर्त्यते। न हि विभावादयोऽलङकाराः, अपि तु भावरसतदाभासानामलङ्काराणामभिनिष्पत्ति— हेतवोऽर्थविशेषाः।
नन्वेवमप्यर्थगुणत्वादमीषामप्यलङ्कारत्वं प्राप्नोति।
सत्यमेतत् किन्त्वन्यपरतया त उपादीयमानास्तत्रैव न्यग्भवन्ति, न वाक्यार्थप्रतीतौ पदार्थाः पृथक् स्फुरन्तीति।