मलिणवसणाण कअवेणिआण आपंडुगंडपालीण।
पुप्फवइआण कामो अंगेसु कआउहो वसइ॥ ५७॥
(मलिनवसनानां कृतवेणिकानामापाण्डुगण्डपालीनाम्।
पुष्पवतीनां कामोऽङ्गेषु कृतायुधो वसति॥)
क्व युवतिमार्दवं क्वच महाहवदारुणता क्व च वलयी करः क्व करिदन्तजमुष्टिरसिः।
क्व च नवयौवनं क्व कुसुमायुधनिस्स्पृहता तव ललनाविचेष्टितविरुद्धमहो ललितम्॥ ५८॥
६४.(९.२४) विप्रकीर्णं यथा—(कुसं. २.६४)
अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे।