भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 261 to 270 of 2002 verses
सहचर-मधु-हस्त-न्यस्त-चूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पकेतुः॥ ५९॥

एवमियं प्रथमा चतुष्षष्टिः॥

१. सकलै॰ ॰कुन्तलाः=सकिलै तरौ (सकलैस्सरत्‍न) वलय(याः) क्लिष्टा जटा कुन्तला=राघवः। २. लोचनहारि = कुन्तलहारि राघवः ३. नाम् = ना(नाम्) राघवः

(२. द्वितीया चतुष्षष्टिः)

(१. लास्याङ्गानि — १०)

अथ द्वितीया। तस्यां गेयपदं, स्थितपाठ्यम्, आसीनं, पुष्पगन्धि(ण्डि)का, प्रच्छेदकं, सैन्धवं, द्विमूढकम्, उत्तमोत्तमम्, उक्तप्रत्युक्तमिति लास्याङ्गानि। तेषु—

१.(१.१)

आसनेषूपविष्टैर्यद्भाण्डवाद्योपबृंहितम् ।

गायनैर्गीयते शुष्कं तद् गेयपदमुच्यते॥ ६०॥

(नाशा. १९.११४)

Showing 261 to 270 of 2002 verses