केयूरीकृतकङ्कणावलिरसौ कर्णावतंसीकृत— व्यालोलालकपद्धतिः पथि पुरो बद्धाञ्जलिः पृच्छति।
यावत् किञ्चिदुदन्तमात्मकमितुस्तावत् स एवेत्यथ व्रीडावक्रितकण्ठनालमबला कैः कैर्न भिन्ना रसैः॥ ८६॥
इङ्गिताकारगोपनमवहित्थम्। तस्य
क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः।
परिहासविजल्पितं सखे! परमार्थेन न गृह्यतां वचः॥ ८७॥
अनुबन्धो यथा—(कुसं. ६.८४)
एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी।