भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 341 to 350 of 638 verses
(अभ्यर्थना न गृह्‍णाति शक्यते त्रिभुवनश्रियाऽपि लोभयितुम्।

न गणयति शरीरभयं कथं मन्त्रेण मन्ये भवेज्जानकी सानुनया॥)

५. मध्यमस्य स्मृतिर्यथा—(मामा. ४.८)

तन्मे मनः क्षिपति यत् सरसप्रहारमालोक्य मामगणितस्खलदुत्तरीया।

त्रस्तैकहायनकुरङ्गविलोलदृष्टिराश्लिष्टवत्यमृतसंवलितैरिवाङ्गैः ॥ ८८॥

कनिष्ठस्य यथा—(उरा. ५.११)

गण्डूषाशोषिताब्धिप्रचलजलचरोत्फालजातस्मितानां हेलाकृष्टार्कचन्द्रद्विगुणकृतमहाकुण्डलाभोगभाजाम् ।

पीनांसस्थापिताशाद्विरदमदमषीमांसलांसस्थलानां दूरं यातस्य वत्स! स्मरति दशशिरास्त्वच्छिशुक्रीडितानाम्॥ ८९॥

६. मध्यमस्य मतिर्यथा—(मामा. १.३२)

मा मूमुहत् खलु भवन्तमनन्यजन्मा मा ते मलीमसविकारघना मरिर्भूत्।

Showing 341 to 350 of 638 verses