माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः।
गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते॥ ९३॥
८. मध्यमस्य शङ्का यथा—(वेसं. ३.९)
किं शिष्याद् गुरुदक्षिणां गुरुगदाद् भीमप्रियः प्राप्तवान् अन्तेवासिदयालुरुज्झितघृणेनासादितो जिष्णुना।
गोविन्देन सुदर्शनस्य निशितं धारापथं प्रापितः शङ्के नापदमन्यतः खलु गुरोरेभ्यश्चतुर्थादहम्॥ ९४॥
कनिष्ठस्य यथा—(वेसं. २.९)
किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तनेष्वभिमुखं नाद्यापि सम्भाविता।
अन्यस्त्रीजनसङ्कथालघुरहं स्वप्ने त्वया लक्षितो दोषं पश्यसि किं प्रिये! परिजनोपालम्भयोगे मयि॥ ९५॥
९. मध्यमस्य निद्रा यथा—(माघ. ११.१०)
गतमनुगतवीणैरेकतां वेणुनादैः कलमविकलतालं गायकै(नै)र्बोधहेतोः।