प्रथमप्रियावचनसंश्रवस्फुरत्पुलकेन सम्प्रति मयाऽवलम्ब्यते।
घनराजिनूतनपयस्समुक्षणक्षणबद्धकुट्मलकदम्बडम्बरः ॥ ९४॥
१७. उत्तमस्य हासो यथा—(रघु. १९.२८)
दर्पणेषु परिभोगवासि/दर्शि—नीं नर्मपूर्वमनुपृष्ठसंश्रयः।
छायया स्मितमनोज्ञया वधूं ह्नीनिमीलितमुखीं चकार सः॥ ९५॥
स एष भुवनत्रयप्रथितसंयमः शङ्करो बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम्।
अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः॥ ९६॥
१८. उत्तमस्योत्साहो यथा—(कुसं. ३.९)
प्रसीद विश्राम्यतु वीर वज्रं शरैर्मदीयैः कतमः सुरारिः।