२०. उत्तमस्य क्रोधो यथा—(शाकु. १.२१)
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम्।
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु॥ १०१॥
मध्यमस्य यथा—(शाकु. ६.२०)
अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु।
बिम्बाधरं दशसि चेद् भ्रमर! प्रियायास्त्वां कारयामि कमलोदरबन्धनस्थम्॥ १०२॥
अङ्गेषु चन्दनरसे मध(?)स्त्वदासीत् (सैर्मधुरत्वमासीत्) तन्व्या म्रदीयसि वपुष्युपगूहिते यत्।
(उद्धृत्य) कामकमनीयमकाण्ड एव(/एतत्)१ कालेन जीवितमिवोद्धरता हतोऽस्मि॥ १०३॥
मध्यमस्य यथा—(उराच. ३.३१, मामा. ९.१२)