धन्यास्ता गुणरत्नरोहणभुवो यास्वे—(तदा)—सादितं धात्रा विस्मयकारि चारु घटितो येनायमेको युवा।
दृष्टे यत्र गलन्ति (मध्य)—रशनादामानि वामभ्रुवां सन्त्रासाद् द्विषतां धनूंषि विभवैरर्थव्यथाश्चार्थिनाम्॥ ९४॥
पात्रं ते सर्व एवार्थी देयं स्वमपि जीवितम्।
दाता त्वमेको लोकेऽस्मिन् सर्वोऽद्य कृपणो जनः॥ ९५॥
प्राणैरपि हिते वृत्तिरद्रोहो व्याजवर्जनम्।
आत्मनीव प्रियाधानमेतत् ते श्रीमहाव्रतम्॥ ९६॥
२२. महारम्भता यथा—(रघु. १२.८९)
जेतारं लोकपालानां ते मुखैरर्चितेश्वरम्।