रामस्तुलितकैलासमरातिं बह्वमन्यत॥ ९७॥
२३. शक्तिर्यथा—(शाकु. ३.१)
का कथा बाणसन्धाने ज्याशब्देनैव दूरतः।
हुङ्कारेणेव धनुषः स हि विघ्नान् व्यपोहति॥ ९८॥
२४. शौर्यं यथा—(रघु. ७.५५)
परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्यमेव।
धूमो निवर्त्येत समीरणेन यतो हि कक्षस्तत एव वह्निः॥ ९९॥
अथ नायिकागुणाः षोडष— 'महाकुलीनता, रूपसम्पत्तिः, यौवनं, सुवेषता, सौभाग्यं, शुचिता, शीलसम्पत्, प्रियंवदता, चातुर्यं, वाग्ग्मिता, शास्त्रज्ञानं, अदीनवाक्यता, अविकत्थनत्वं, मानिता, कृतज्ञता, दृढभक्तित्वम्' इति। तत्र—
१. महाकुलीनता यथा—(शाकु. १.२१)