मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती॥ १०३॥
५. सौभाग्यं यथा—(गास. १.६९)
पाणिग्गहणे च्चिअ पव्वईएँ णाअं सहीहिं सोहग्गं।
पसुवइणा वासुइकंकणम्मि ओसारिए दूरं॥ १०४॥
(पाणिग्रहणे एव पार्वत्याः ज्ञातं सखीभिः सौभाग्यम्।
पशुपतिना वासुकिकङ्कणेऽपसारिते दूरम्॥)
चच्चरघरिणी पिअदंसणा अ वाला पउत्थवइआ अ।
असई सअज्झिआ दुग्गआ अ ण हु खंडिअं सीलं॥ १०५॥
(चत्वरगृहिणी प्रियदर्शना च बाला प्रोषितपतिका च।